संस्कृतस्य महत्त्वम्
किमर्थं वयं संस्कृतं पठामः।
किमर्थं वयं संस्कृतं पठामः।
संस्कृतं अस्ति अस्माकं प्राचीनभाषा,
संस्कृतं अस्ति अस्माकं गौरवभाषा,
पुरा आसीत् एषा गीर्वाणवाणी-राजभाषा ,
अधुनापि या अस्माकं प्रधानम् अभिधानम्।
यस्याः साहियं अस्ति महद् विशालम्,
यदस्ति भारतीयसंस्कृतेः दर्पणम्,
यदस्ति राष्ट्रीयभावनया ओतप्रोतं,
यदस्ति नैतिकताप्रभूतं,
विश्वमपि ज्ञायते यस्य महत्वम्।
व्यापके अस्मिन साहित्ये वर्तते सर्वमेतत् ,
इतिहास-धर्म-कला-राजनीति-दर्शनम् ,
वैदिकं-प्राचीनं-पौरानिकं-अर्वाचीनं ,
उदघोषयति संस्कृतेः संस्कृतस्यापि महत्त्वम् ।
प्रददाति अस्मभ्यं आनन्दं गौरवं च ,
पूरकं ते परस्परं संस्कृति- संस्कृतद्वयं ,
द्वयमेव अस्माभिः सर्वदा वन्दनीयं,
द्वयमेव अस्माभिः सर्वदा रक्षनीयम् ।
संस्कृतस्य रक्षणार्थं ,संस्कृतेः रक्षणार्थं,
रक्षितुं भारतस्य एकतां अखण्डतां च,
वयं सर्वे सदा सन्नद्धाः भवेम,
देश-भक्ति-यज्ञे स्वाहुतिं अर्पयाम।
पठामः वयं संस्कृतं एतदर्थम्।
पठामः वयं संस्कृतं एतदर्थम्।।
No comments:
Post a Comment