Sunday, July 5, 2015
पठत पुस्तकम पठत पुस्तकम् । लभध्वम् ज्ञानम् सामान्य ज्ञानम् लभध्वम् सम्यक् भाषाज्ञानम् । पुस्तकेषु अस्ति ज्ञानभंडारम् पुस्तकानाम् महिमा अपरम्पारम् । इतिहास- भूगोल- राजनीतिशास्त्रम् गणित- विज्ञान- अर्थशास्त्रम् कथाः सन्ति कविताः सन्ति नाटक - व्यंग्य -लेख -संस्मरणम्। सर्वेषाम् कुर्वन्ति मनोरंजनम् भद्रम् कल्याणम् समस्या-समाधानम्। पठत पुस्तकम् पठत पुस्तकम् वर्धध्वम् ज्ञानम् सामान्य ज्ञानम्। यदा-कदा यदि पुस्तक-पठनम् हस्ते ग्रहीत्वा न रोचते तुभ्यम् अन्तर्जाले संगणकेऽपि त्वम् मिलितुम् शक्नोषि पुस्तक-मित्रम् 'श्री ईपब रीडर' माध्यमेन त्वम् पठितुम् शक्नोषि 'ईपुस्तकम्'॥ शिक्षा--पुस्तकानि अस्माकम् मित्राणि भवन्ति। पूनम गुप्ता संस्कृत अध्यापिका
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment