Sunday, July 5, 2015
उपवन मध्ये प्रफुल्लति लतिका तु, मधुपो न ताम् प्रजहाति रे; गुंजति परितो भ्रमति स हि भूयो, धैर्यम् न किमपि दधाति रे। हृदये किमस्य न जाने किमिच्छति,चक्षुषि किम् न चकास्ति रे; वारय री वनपालि तमेतम् त्वम्, कोऽपि न चपलम् प्रशास्ति रे। सुन्दर वर सुकुमारी वधू नव मिलनम् तु भूरि विभाति रे; विलसति युगलम् गृहे अति सुखयति हृदये च मोदम् ददाति रे। उपवन मध्ये प्रफुल्ल्ति लतिका तु मधुपो न ताम् प्रजहाति रे।
संस्कृतस्य महत्त्वम् किमर्थं वयं संस्कृतं पठामः। किमर्थं वयं संस्कृतं पठामः। संस्कृतं अस्ति अस्माकं प्राचीनभाषा, संस्कृतं अस्ति अस्माकं गौरवभाषा, पुरा आसीत् एषा गीर्वाणवाणी-राजभाषा , अधुनापि या अस्माकं प्रधानम् अभिधानम्। यस्याः साहियं अस्ति महद् विशालम्, यदस्ति भारतीयसंस्कृतेः दर्पणम्, यदस्ति राष्ट्रीयभावनया ओतप्रोतं, यदस्ति नैतिकताप्रभूतं, विश्वमपि ज्ञायते यस्य महत्वम्। व्यापके अस्मिन साहित्ये वर्तते सर्वमेतत् , इतिहास-धर्म-कला-राजनीति-दर्शनम् , वैदिकं-प्राचीनं-पौरानिकं-अर्वाचीनं , उदघोषयति संस्कृतेः संस्कृतस्यापि महत्त्वम् । प्रददाति अस्मभ्यं आनन्दं गौरवं च , पूरकं ते परस्परं संस्कृति- संस्कृतद्वयं , द्वयमेव अस्माभिः सर्वदा वन्दनीयं, द्वयमेव अस्माभिः सर्वदा रक्षनीयम् । संस्कृतस्य रक्षणार्थं ,संस्कृतेः रक्षणार्थं, रक्षितुं भारतस्य एकतां अखण्डतां च, वयं सर्वे सदा सन्नद्धाः भवेम, देश-भक्ति-यज्ञे स्वाहुतिं अर्पयाम। पठामः वयं संस्कृतं एतदर्थम्। पठामः वयं संस्कृतं एतदर्थम्।।
संस्कृतस्य महत्त्वम्
किमर्थं वयं संस्कृतं पठामः।
किमर्थं वयं संस्कृतं पठामः।
संस्कृतं अस्ति अस्माकं प्राचीनभाषा,
संस्कृतं अस्ति अस्माकं गौरवभाषा,
पुरा आसीत् एषा गीर्वाणवाणी-राजभाषा ,
अधुनापि या अस्माकं प्रधानम् अभिधानम्।
यस्याः साहियं अस्ति महद् विशालम्,
यदस्ति भारतीयसंस्कृतेः दर्पणम्,
यदस्ति राष्ट्रीयभावनया ओतप्रोतं,
यदस्ति नैतिकताप्रभूतं,
विश्वमपि ज्ञायते यस्य महत्वम्।
व्यापके अस्मिन साहित्ये वर्तते सर्वमेतत् ,
इतिहास-धर्म-कला-राजनीति-दर्शनम् ,
वैदिकं-प्राचीनं-पौरानिकं-अर्वाचीनं ,
उदघोषयति संस्कृतेः संस्कृतस्यापि महत्त्वम् ।
प्रददाति अस्मभ्यं आनन्दं गौरवं च ,
पूरकं ते परस्परं संस्कृति- संस्कृतद्वयं ,
द्वयमेव अस्माभिः सर्वदा वन्दनीयं,
द्वयमेव अस्माभिः सर्वदा रक्षनीयम् ।
संस्कृतस्य रक्षणार्थं ,संस्कृतेः रक्षणार्थं,
रक्षितुं भारतस्य एकतां अखण्डतां च,
वयं सर्वे सदा सन्नद्धाः भवेम,
देश-भक्ति-यज्ञे स्वाहुतिं अर्पयाम।
पठामः वयं संस्कृतं एतदर्थम्।
पठामः वयं संस्कृतं एतदर्थम्।।
पठत पुस्तकम पठत पुस्तकम् । लभध्वम् ज्ञानम् सामान्य ज्ञानम् लभध्वम् सम्यक् भाषाज्ञानम् । पुस्तकेषु अस्ति ज्ञानभंडारम् पुस्तकानाम् महिमा अपरम्पारम् । इतिहास- भूगोल- राजनीतिशास्त्रम् गणित- विज्ञान- अर्थशास्त्रम् कथाः सन्ति कविताः सन्ति नाटक - व्यंग्य -लेख -संस्मरणम्। सर्वेषाम् कुर्वन्ति मनोरंजनम् भद्रम् कल्याणम् समस्या-समाधानम्। पठत पुस्तकम् पठत पुस्तकम् वर्धध्वम् ज्ञानम् सामान्य ज्ञानम्। यदा-कदा यदि पुस्तक-पठनम् हस्ते ग्रहीत्वा न रोचते तुभ्यम् अन्तर्जाले संगणकेऽपि त्वम् मिलितुम् शक्नोषि पुस्तक-मित्रम् 'श्री ईपब रीडर' माध्यमेन त्वम् पठितुम् शक्नोषि 'ईपुस्तकम्'॥ शिक्षा--पुस्तकानि अस्माकम् मित्राणि भवन्ति। पूनम गुप्ता संस्कृत अध्यापिका
Subscribe to:
Posts (Atom)